"विरतिर्विरामः" इति। भावे घञ्। विरामो वणोच्चारणाभावोऽवसानसंज्ञो भवति। "विरम्यतेऽनेनेति विरामः" इति विरामशब्दस्य द्वितीयमर्थं दर्शयति। "कृत्यल्युटो बहुलम्"
३।३।१३ इति बहुलवचनादसंज्ञायामपि "हलश्च"
३।३।१२१ इति घञ्। अत्र पक्षे येनान्त्येन वर्णेन विरम्यते सोऽवसानसंज्ञो भवति। तत्र पूर्वस्मिन् पक्षेऽभावे पौर्वापर्याभावात् "खरवसानयोः"
८।३।१५ इत्यत्रावसानापेक्षया विषयसप्तमीयं विज्ञायते; न परसमप्तमी। खरपेक्षया तु सप्तमीयम्।
अन्ये तु-- यद्यभावे पौर्वापर्यं न सम्भवतीत्यवसनापेक्षया "खरवसानयोः"
८।३।१५ इति परसप्तमी नोपपद्यते, तदा "इको यणचि"
६।१।७४ इत्यादावपि परसप्तमी नोपपद्यते।
कथम्? वर्णानां क्रमभावित्वात्, उच्चरितप्रध्वंसितत्वाच्च। यदेगस्ति तदाञ् नास्ति, यदा त्वजस्ति तदेग् नास्ति। अथात्र बुद्धिप्रकल्पितं पौर्वापर्यमाश्रित्य परसप्तमीष्यते, तदा "खरवसानयोः"
८।३।१५ इत्यत्रापितथैवैष्टव्येति मन्यमाना अवसानापेक्षयापि परसप्तमीमिच्छन्ति।
अपरे तु--अन्त्यस्य तु वर्णस्यावसानसंज्ञायां सत्यां "खरवसानयोः"
८।३।१५ इति षष्ठी विज्ञायते। अत्रावसानापक्षया स्थानषष्ठी। रेफस्यावसानस्य विसर्जनीय इति खरपेक्षया तवानन्तर्यलक्षणा षष्ठीति वदन्ति। तन्मते स्थानषष्ठ()आं हि "रो रि"
८।३।१४ इत्यतो रेफस्यानुवृत्तस्य यत् स्थानित्वं तदविरुध्यते तदेवमेकापि विभक्तिर्यथायोगं विभज्यते। ननु चाभावपक्षेऽपि पूर्वस्मिन्नपि भागेऽनुच्चारममस्ति, तत्रापि विसर्जनीयः प्राप्नोति-- रथ इति,
अस्ति ह्रत्रापि रेफात् प्रागुच्चारणम्? नैष दोषः तत्र हि प्रकृतं पदग्रहणं रेफेण विशिष्यते-- रेफान्तस्य पदस्येति। न च पूर्वेण रेफेण पदं भवति। नन्वेवप्यर्थस्यैषा संज्ञा स्यादिति "खरवसनायोः"
८।३।१५ इत्यत्र "तस्मिन्निति निर्दिष्टे पूर्वस्य"
१।१।६५ इति परिभाषा नोपतिष्ठते। शब्दे हि सप्तमीनिर्दिष्टे सतीयमुपतिष्ठते, नार्थे। तदनुपस्थाने च परेण रेफेण रेफान्तस्य रथ इत्येतस्य पदस्य पूर्वो यो रेफस्तस्य व्यवहितस्यापि विसर्जनीयः स्यात्, नैष दोषः; ज्ञापकान्न भविष्यति, यदयं "उरण् रपरः"
१।१।५० इति व्यवहितस्य रेफस्य विसर्जनीयमकृत्वा निर्देशं करोति, तज्ज्ञापयति- व्यवहितस्य रेफस्य विसर्जनीयो न भवतीति।
"नन्वत्र लोके प्रसिद्धेरेवायन्त्ये वर्णेऽवसानशब्दस्य सम्प्रत्ययो भविष्यति। प्रसिद्धो हि लोके--अन्त्ये वर्णेऽवस्यतेः प्रयोगः। तथा हि केनावस्यतीत्युक्ते वक्तारो वदन्ति-- इकारेणोकारेण वेति। इकारादिवर्णेनावसानं करोतीत्यर्थः। ततः प्रदेश एवावसानग्रहणं कत्र्तव्यमिति नार्थः संज्ञासंज्ञिप्रणनेन, नैतदस्ति; अपूर्वो हि स्यतिः परिसमाप्तावपि वत्र्तते-- अवसितो वाद इति, अवगमेऽपि वत्र्तते-- अवसितोऽर्थ इति, पराभवेऽपि वत्र्तते--द्वयोर्विवादेऽवसितो दवदत्त इति। तत्र यदीयं नारभ्यते,
तदावसानग्रणे सन्देहः स्यात्-- किमभिधानावसानशब्दस्य ग्रहणमिति? "विरामोऽवसानम्" (१।४।
११०) इति तु ह्रन्तग्रहणं कत्र्तव्यम्-- खरन्त्ययोरिति? एतदपि नास्ति;
एवं हि सन्देहः स्यात्-- किमन्त्यस्य वर्णस्य? उत पदस्य? आहोस्वद्वाक्यस्येति? तत्रान्त्यस्य विशेषणार्थं वर्णग्रहणं कत्र्तव्यं स्यात्। तस्मात् संज्ञासंज्ञिसम्बन्धः कत्र्तव्यः।
"वृक्षः, प्लक्षः" इति। "खरवसनायोर्विसर्जनीयः"
८।३।१५। "दधिं मधुँ" इति। "अणोऽप्रगृह्रस्यानुनासिक"
८।४।५६ इति। अत्र हि "वाऽवसाने"
८।४।५५ इत्यतोऽवसानग्रहणमनुवर्तते॥
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
प्रथमाध्यायस्य
चतुर्थः पादः
समाप्तश्चायं प्रथमोऽध्यायः॥
-----------
श्रीबोधिसत्त्वदशीयाचार्यजिनेन्द्रबुद्धिपादविरचिता
न्यासापरपर्याया
काशिकाव्याख्या
----------
द्वितीयाध्यायस्य
प्रथमः पादः